________________
पं.श्रीमेरुविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३५१
गत्याऽऽस्यमस्यतु तमस्तव गौर्यवन्ती,
नालीकभं जन ! परास्तमरालबाला
॥४॥
अथ श्रीनमिजिनस्तुतिः ।
१ ( वसन्ततिलकावृत्तम् ) देवेन्द्रवृन्दपरिसेवित ! सत्त्वदत्त
सत्यागमो मदनमेघमहानिलाभः । मथ्नासि नाथ ! रतिनाथसरूपरूपः,
सत्यागमोऽमद ! नमे ! ऽघमहानिलाभः ॥१॥ पापप्रवृत्तिषु पराणि निवर्तयन्त्य
___ सत्यासु खानि शिवसङ्गमनाददाना । जैनेन्द्रपङ्क्तिरुपयातु मदीयचित्ते,
___ सत्या सुखानि शिवसङ्गमना ददाना ॥२॥ बूथं ममन्थ हरिरैभमिवाधिमस्त
मायामहारिमदनं दितदानवारि । जैनं मतं विजयतां तदिदं गमाना
मायामहारि मदनन्दितदानवारि ॥३॥ या काल्यकिञ्चनजनानतनोदिताऽब्जं,
प्रत्यर्थिनो विशदमानगदाऽक्षमाला । सा देवता प्रथयतु प्रथितप्रभावा, प्रत्यर्थिनो विशदमानगदाक्षमाला
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org