________________
.पं. श्रीमेरुविजयजीगणिप्रणीता स्तुतिचतुर्विंशतिका
वज्राङ्कुशी दिशतु शं समुपात्तपुण्यस्वाsनेकपङ्कमलमुक्तघना घनाभम्
अथ श्री सुविधिजिनस्तुतिः । १ ( वसन्ततिलकावृत्तम् )
निर्वाणमिन्दुयशसां वपुषा निरस्त
रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पढ़े मां,
रामाङ्गजोरु जगत: सुविधे ! निधेहि
संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड
भास्वन्महाः शिवपुर: सविधेऽयशस्तः । पायादपायरहितः पुरुषान् जिनौघो,
भास्वन्महाः शिवपुर: सविधेयशस्तः
ये प्रेरिताः प्रचुरपुण्य भरैर्विनम्राड
पापायमानव ! सुधारुचिरङ्गतारम् । कुर्वन्तु ते हृदि भवद्वचनं व्यपास्त
पापायमान ! वसुधारुचिरं गतारम्
त्वं देवते ! विशदवाग्विभवाभिभूत
सारामृता समुदितास्यसुतारकेशा । नृणामुपप्लवचमूमुचितमदानेऽ
सारामृता समुदिता स्य सुतारकेशा
Jain Education International
For Private & Personal Use Only
३४१
118 11
॥ १ ॥
।। २ ।
॥३॥
118 11
www.jainelibrary.org