________________
३३१
स्तुतितरङ्गिणी : सप्तमस्तरा
अथ श्रीमुनिसुव्रतजिनस्तुतिः ।
+ १ ( मालिनीवृत्तम् ) जन ! मनसि वह त्वं, सुव्रतं नुन्ननव्यां
जनमहसमलोभ, गोत्रधीरोर्जिताऽऽभम् अभजदृषिसमाजो, यं. जिनं प्रीतधीमज्
जनमहसमलोऽभङ्गोऽत्र धीरोऽर्जिताऽभम् ॥१॥ वसतु वशिवराः ! सा, राजिरिद्धा जिनानां,
__ मनसि शमवशानां, वोऽधिकाऽऽमन्ददाना । समजनि शिवमार्गे, या समूहे मुनिना
मनसि शमवशाना, बोधिकामं ददाना ॥२॥ रविमिव कुरु गुम्फं, तं तमोऽध्नं जिनोक्तेः,
श्रवसि महदया या, मोदिताऽमर्त्यचक्रम । यदधिगतिरनैषी-दध्वनि प्रीतवृद्ध
श्रवसि महदयायामोदिता मर्त्यचक्रम् ॥३॥ वितरतु नरदत्ता, सा नवीना मुनीनां,
सदसि मम रमा न्या-यातताऽपाक्षमाऽऽला । व्यरुचदिह दधाना या, धियं वैरिवल्ली
सदसिममरमान्या, याततापाऽक्षमाला ॥४॥
अथ श्रीनमिजिनस्तुतिः।
+ १ (मालिनीवृत्तम् ) विजयसुत ! भवान् नन्, सिद्धये नः स भूया
दरितमसि महीनः, पङ्कजातं सदाऽऽयः । १°निर्जिन.। २ अमर्त्या एव कोकाः येन तम् । ३ इन्द्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org