________________
श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३२९
अथ श्रीमल्लिजिनस्तुतिः ।
____ + १ ( मालिनीवृत्तम् ) सृज सुखमखिलं मे, मल्लिनाथ ! प्रकोपे
रणरणकमलाऽऽली-नाग ! तापाऽपमान ! । रतिरजनि मुनीनां, यन्मुखे पूरितैनो-.
रणरणकमलाऽली, नाऽगताऽपापमान ! ॥१॥ स भवतु जिनसार्थः, शर्मणेऽकर्मणे सद्
विभवरजनिनेताऽऽपन्नयामोऽदिताय । नतिरमरगणेनाऽ-कारि यस्मै विराजद्
विभवरजनिनेताऽऽपत् नयाऽऽमोदिताय ॥२ ।। पथि नयतु विमुक्ते, साऽऽहतां गी: प्रकामाs
समसमितिमितानां, श्रेयसां मा लयानाम् । विधिरजनि यतीनां, यत्र दिग्भिर्गतांहः
समसमितिमितानां, श्रेयसां माऽऽलयानाम् ॥३॥ प्रकुरु भुजगभर्तुः, स्थायि धर्मे मनस्त्वं,
__ मम रमणि ! सवर्णे, पुण्यहृद्यातमाया !। हितहगसि नितान्तं, बोधिदाने जनाना
ममरमणिसवर्णे !, पुण्यहृद्याऽतमा या ॥४॥
१ औत्सुक्यम् । २ अविद्यमानौ.। ३ गणधराणां चन्द्रः । ४ अखण्डिताय। ५ धरणेन्द्रस्य । ६ पूतं मनो यस्याः सा। ७ नास्ति पातकं यस्याः सा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org