________________
पं. श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३२१ मुनिमनुजमनोऽब्धि,-प्रीणने यः सदाऽऽसी
दमृतरुचिरकामो-दारधीरस्तमोहः ॥१॥ प्रमुखमृषिसमूहे, तं जिनौघं ददानं,
नमत लसदये शं, मानवा ! 'धामवामम् । अभजत भगवन्तं, यं सुखश्रीभवार्यो
नमतलसदयेशं, मानबाधाऽऽमवामम ॥२॥ भवपयसि गभीरे, मन्जतां रक्षणार्थ,
___मत घनरसमर्थ, सज्जपङ्के बलेन । भगवदभिहिताना-मागमानागमाना
मतघनर ! समर्थ, सज्जपं केवलेन ॥३॥ हरतु सुरवधूभिः, शोभमाना कलाभाऽ
गविनयमहितानां, भासमाना सुतारा ! ! निकरमृषिवराणां, याऽस्तवीदस्तवैरा,
गवि नयमहितानां, भाऽसमाना सुतारा ॥४॥
अथ श्रीशीतलजिनस्तुतिः ।
+ १ ( मालिनीवृत्तम् ) दलति वचसि लक्ष्म्या, शीतलाऽस्मिल्लसद्वा
___ गुरुतरस्मि तवाऽऽधे--हीन ! मा नेतरागः । अजनि जनितचेतो, यत्र सङ्घोऽङ्गभाजां,
गुरुतर ! ५सितबाधे, हीनमानेतरागः ॥१॥ १. तेजोभिर्मनोज्ञम् । २. पराङ्मुखम् । ३. हे प्रापक ! । ४. आगः-अपराधम् । ५. कीलितबाधे। ६. वीतरागः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org