________________
३१९
. श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका सपदि शिरसि हस्तं, नाप्ययस्या अघं सद्
धनुतरतिरमानाशंसनामायदेहे
॥४
॥
अथ श्रीसुपार्श्वजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) सततमतिलसन्त्या, कायकान्त्याऽस्तकात
__ स्वरमहसमवाऽलं, स्वस्तिकान्तं सुपार्श्वम् । हृदि विदितनिकामाऽस्तोकलोकं गभीर
स्वरमहसमबालं, स्वस्तिकाऽन्तं सुपार्श्वम् ॥१॥ जिनगणमितमीहे, भेदिनं पथ्यपेतै
नसि तमहसमारं, भागशं बन्धनानाम् । गृहमिव यकमाऽऽहु-र्भीमताकान्तताऽस्ते
नसितमहसमाऽऽर-म्भाऽगशम्बं धनानाम् ॥२॥ सृजतु जिनवचो वः, सत्फलं स्वान्तभूमा
विह तदरममायं, ज्ञानकन्दं भवन्तम् । यदवति हरदुच्चै-दण्डयद्वादिलोकं,
विहतदरममाऽऽयं, ज्ञानकं दम्भवन्तम् ॥३॥ नमत नमदमाऽशेषरामाभिरामां,
गजगतिमुदिताशां, तामुदाराममानाम् । अनिशमिह सुपार्श्व-स्वामिमूर्ति नमत्यं
ग! जगति मुदिता शान्ता मुदा राममानाम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org