________________
३१४
सप्तमस्तरा पू. पं. श्रीहेमविजयजीगणिप्रणीता विजयनामा-यमकबद्ध
स्तुतिचतुर्विंशतिका। अथ श्रीआदिजिनस्तुतिः ।
१ (मालिनीवृत्तम् ) दिश सुखमखिलं नः, सीरसाधारणस्त्वं,
वृषभ ! रतरसायामीश ! मानं दधानः । सुरनरनिकरेण, स्तूयसे यः सदोद्यद्,
वृषभर तरसा यामी शमाऽऽन्दधानः सुजनजिनवराणां, स्तोममस्तस्मराणां,
व्रज मघवलयानां, तं त्रपात्रं पराणाम् । पवन इव पयोदं, योऽनयन्नाशमाशु,
ब्रजमघवलयानां, तन्त्रपात्रं पराणाम् ॥२॥ उचितमिह भवन्तं, सर्ववित्सार्वभौमाऽऽ
गम ! तनु महतां मे, ध्यानमस्ताऽऽरभावम् । निखिलसुखनिदानं, कामितार्थंकदैवाऽ
गमतनु महतां मेध्याऽनमस्तारभावम् ॥३॥ त्रिदशततिनता श्रीधाम चक्रेश्वरी सा,
जयति मुदितहृत् याताऽपमानाऽसमाना। प्रणमति नरराजिया स्तुतध्वस्तदम्भाऽ
जयतिमुदितहृद्याऽतापमाना समाना ॥४॥ १. कुरु । २. पूजयताम् । ३. आर-शत्रूणां समुदायसत्ता । ४. दीर्घ ध्यानम् । ५.कामः । ६. सपूजा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org