________________
.श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विशतिका
३१५
अथ श्रीअजितजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) मनसि मनसिजेशं, धेहि तीर्थाधिपं सत्
__ तम ! जितमदमोहेऽसाध्वसं गेयशोभम् । अगतमनसमेणीहरगणे साम्यशर्मे
तमजितमदमोहे, साध्वसङ्गे यशोभम् ॥१॥ मनसि जिनवराणां, स्तोममस्ताभिमान
__ स्मरतरसमदम्भ, देहिनां भो ! गतारम् । सुकृतवनविताने, बारिवाहं समूहाः,
स्मरत रसमदं भंदेहिनां भोगतारम् ॥२॥ निहितनिखिलशस्तं, ध्वस्तसद्रोहमोहा
जि नमत महतारं, भेदि नानाऽऽमयानाम् । अनृतदृशि जनौधे, तस्थुषां हर्तृ नित्यं,
जिनमतमहताऽऽरम्भे दिनानामयानाम् ॥३॥ वितनु मुतनुसम्पत् !, रश्मिरूपाभिभूता
शनिरतिरजिते ! शं, मे दुरापं कलाभा । नयनिगमनियोगैः, सेवमाना महर्षी
शनिरतिरजितेशं, मेदुरा पङ्कलाभा
॥
४
॥
अथ श्रीशम्भवजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) पथि मथितदुरन्त-द्रोहमोहप्रसून
ध्वज ! नय सहितेन !, पुण्यकान्ते सदैव । १. कल्याणकामिनाम् । २. अपहतः-अहृतः आरम्भो येन तस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org