________________
शोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका
३१३
ऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्
परेताहितारोचितम् ॥ २ ॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये
निकाय्ये वितीर्यात्तरामहतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्वतीता
पदानन्दधानस्य साऽमानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनो
तारनौर्भारती तीर्थकृत् !, महति मतिमते हितेशस्य मानस्य वा संसदातन्वती ताप
दानं दधानस्य सामानि नः ॥३॥ सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फु
रद्रश्मिसारक्रमाम्भोरुहे !, परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते !
भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचश्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे संस्थिते !
भव्यलोकं त्वमम्बाऽम्बिके !, परमव सुतरां गजारावसन्ना शितारातिभा राजिते
भासि नीहारतारावलक्षेऽमदा ॥ ४ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org