________________
३१२
सप्तमस्तक
शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा
ऽऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥३॥ याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता
ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृद्भषणाऽभीषणा भीहीनाऽहीनाध्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥४॥
अथ श्रीमहावीरजिनस्तुतिः ।
१ ( अर्णवदण्डकवृत्तम् ) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमाला
रजोरञ्जितांहे ! धरित्रीकृतावन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहे
क्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशर्माणि जातावतारो
धराधीशसिद्धार्थधाग्नि क्षमालङ्कतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे
हे क्षितामो हिताक्षोभवान् ॥ १ ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपने
न्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवरा
राट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽर्हतां संहतिर्भक्तिभाजां भवाम्भोधि
सम्भ्रान्तभव्यावलीसेविता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org