________________
३१०
सप्तमस्तरमा
-
नमद्भव्यश्रेणिभवभयभिदां हृद्यवचसा
ममायासञ्चारोदितमदनमेघानिल ! पितः! ॥ १ ॥ नखांशुश्रेणीभिः कपिशितनमन्ना किमुकुटः,
सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः,
सदानो दीनानामयमलमदारेरिततमः जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो,
गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा.. गुरुर्वाऽहो! पाता पदघनगरीयानसुमतः । ॥ ३ ॥ विपक्षव्यूह वो दलयतु गदाक्षावलिधरा
ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया
समानाली काली विशदचलनानालिकबरम् ॥ ४ ॥
अथ श्रीनेमिजिनस्तुतिः ।
१ ( शार्दूलविक्रीडितवृत्तम् ) चिक्षेपोर्जितराजकं रणमुखे योऽलक्षसंख्यं क्षणा
दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो,
___ दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥१ ।। प्राव्राजीन्जितराजका रज इव ज्यायोऽपि राज्यं जवाद्,
या संसारमहोदधावपि हिता शास्त्री विहायोदितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org