________________
श्रीशोभनदेवसू, प्रणीता-स्तुतिचतुर्विंशतिका
अथ श्रीमुनिसुव्रतजिनस्तुतिः । १ ( नर्कुटकवृत्तम् )
जिनमुनिसुव्रतः समवताज्जनतावनतः,
समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः
समुदितमानबाधनमलो भवतो भवतः प्रणमत तं जिनव्रजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिल मिलनो
दलकमला ननाम हिमधामभया समरुक् त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो
ऽव सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं,
वसदनुमानसं गमनयातत ! मोदयितः ! अधिगतगोधिका कनकरुक् तव गौर्युचिता -
कमलकराज तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्ग तिलकैर्वदनं दधती,
कमलकर जितामरसभाऽस्यतु लोपकृतम्
अथ श्रीनमिजिनस्तुतिः । १ ( शिखरिणीवृत्तम् )
स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं,
Jain Education International
३०९
For Private & Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
ममायासं चारो ! दितमद ! नमेऽघानि लपितः ! |
11 8 11
www.jainelibrary.org