________________
सप्तमस्ता
कीर्त्या कुन्दसमविषेषदपि ये न प्राप्तलोकत्रयी
राज्या. मेदुरपारिजातसुमनःसन्तानकान्ताश्चिताः ॥२॥ जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा
लीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस
ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥३॥ दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात् ,
सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तनाष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन् मूढतां,
संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ४॥
अथ श्रीकुन्थुजिनस्तुतिः ।
__ १ ( मालिनीवृत्तम् ) भवतु मम नमः श्रीकुन्थुनाथाय तस्मा
यमितशमितमोहायामितापाय हृद्यः। सकलभरतभर्ताऽभूजिनोऽप्यक्षपाशा
यमितशमितमोहायामितापायहृद् यः सकलजिनपतिभ्यः पाक्नेभ्यो नमः सन्
नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयो
नयनरवरदेभ्यः सारवादस्तु तेभ्यः स्मरत विगतमुद्र जैनचन्द्रं चकासत्
कविपदगमभङ्ग हेतुदन्तं कृतान्तम् ।
॥१॥
॥२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org