________________
श्रीशोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका
३०३ अथ श्रीवासुपूज्यजिनस्तुतिः ।
१ ( स्रग्धरावृत्तम् ) पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्तेऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो!। आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ॥१॥ पूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभां, या तापत्राऽसमानाऽप्रतिमदमवतीहारता राजयन्ती। कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्त्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥२॥ नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धाऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥३॥ रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत्सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः, सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥४॥
अथ श्रीविमलजिनस्तुतिः ।
१ ( पृथ्वीवृत्तम् ) अपापदमलं घनं शमितमानमामो हितं,
नतामरसभासुरं विमलमालयाऽऽमोदितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org