________________
३०२
सप्तमस्तरङ्ग
घनरुचिर्जयताद् भुवि मानवी, गुरुतराविहतामरसङ्गता। कृतकराऽस्त्रवरे फलपत्रभा-गुरुतराविह तामरसं गता..
॥४॥
अथ श्रीश्रेयांसजिनस्तुतिः ।
१ ( हरिणीवृत्तम् ) कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः,
कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहृत यन्मनः,
___कमलसदृशाङ्गी तारा वाबला दयिताऽपि तम् ॥ १॥ जिनवरततिर्जीवालीनामकारणवत्सलाऽ
समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पङ्क्त्या नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया
॥२॥ भवजलनिधिभ्राम्यजन्तुव्रजायतपोत ! हे,
तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपति,
तनुमति मतां सन्नाशानां सदानरसं पदम् ॥३॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित
प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां,
प्रजयति महाकाली माधिपं कजराजिभिः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org