________________
श्रीशोभनदेवसू. प्रणीता-स्तुतिचतुर्विंशतिका
२९७ सितशकुनिगताऽऽशु मानसीद्धा-त्तततिमिरम्मदभासुराजिताशम् । वितरतु दधती पवि क्षतोद्यत्-तततिमिरं मदभासुराजिता शम् ॥४॥
अथ श्रीशम्भवजिनस्तुतिः ।
१ ( आर्यगीविवृत्तम् ) निर्भिन्नशत्रुभवभय !, शं भवकान्तारतार ! तार! ममारम् । वितर त्रातजगत्त्रय !, शम्भव ! कान्तारतारतारममारम् ॥१॥ आश्रयतु तब प्रणतं, विभया परमा रमाऽरमानमदमरैः।। स्तुत ! रहित! जिनकदम्बक !, विभयापरमार ! मारमानमदमरैः ॥२॥ जिनराज्या रचितं स्ता-दसमाननयानया नयायतमानम् ।। शिवशर्मणे मतं दध, दसमाननयानयानया यतमानम् ॥ ३ ॥ शृङ्खलभृत् कनकनिभा, या तामसमानमानमानवमहिताम् ।। श्रीवज्रशङ्खलां कज-यातामसमानमानमानवमहिताम् ॥ ४ ॥
अथ श्रीअभिनन्दनजिनस्तुतिः ।
१ (द्रुतविलम्बितवृत्तम् ) त्वमशुभान्यभिनन्दन ! नन्दिता-ऽसुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन् !, सुरव ! धूनय नः परमोऽदरः ॥ १। जिनवराः ! प्रयतध्वमितामया, मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनता-ममतमोहरणा यमहारिणः ॥२। असुमतां मृतिजात्यहिताय यो, जिनपरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धता-ऽऽजिनवरागमनोभषमाय ! तम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org