________________
२९६
सप्तमस्तरा भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झिता
रम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ॥१॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो,
दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयाश्चकुः पतन्त्योऽम्बरा--
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै--
रक्षोभं जन! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली
रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कृतम् ॥ ३॥ शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा
नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ,
नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥४॥
अथ श्रीअजितजिनस्तुतिः ।
१ (पुष्पिताग्रावृत्तम् ) तमजितमभिनौमि यो विराजद-वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठा-उनघनमेरुपरागमस्तकान्तम् ॥१॥ स्तुत जिननिवहं तमर्तितप्ताऽध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व-ध्वनदसुरामरवेणव स्तुवन्ति ॥२॥ प्रवितर वसतिं त्रिलोकबन्धो !, गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथी-गमनययो! गततान्ति मेऽपदेहे ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org