________________
लीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका
२९५ नन्ताऽनन्ताज्ञमेवं वदति यमघनं भासुराणां सुराणां,
पाता पातात् स वीरः कृतततमलिनज्ञानितान्तं नितान्तम् ॥१॥ येऽमेये मेरुमूर्धन्यतुलफलविधासत्तरूपात्तरूपाः,
सस्नुः सस्नुत्यजीर्यदृषदि सुरजलैः प्रास्तमोहास्तमोहाः । जातौ जातौजसस्ते द्युतिचितिजितसत्कुन्ददन्ता ददन्ता
मध्यामध्यानगम्याः प्रशममिह जिनाः पापदानां पदानाम् ॥२॥ दोषो दोषोरुसिन्धुप्रतरणविधिषु न्यायशस्या यशस्याः,
प्रादुः प्रादुष्कृतार्थाः कृतनतिषु जयं सम्पराये परा ये । ते शान्तेशां नखांशुच्छुरितसुरशिरोराजिनानाजिनाना
मारामा राद्धिलक्ष्म्या वचनविधिलवा वो दिशन्तां दिशं ताम् ॥३॥ सिंहेऽसिं हेलयाऽलं जयति खरनखैर्वीतनिष्ठेऽतनिष्ठे,
शुक्ले शुक्लेशनाशं दिशति शुभकृतौ पण्डितेऽखण्डिते खम् । याते या तेजसोऽऽन्या तडिदिव जलदे भाति धीराऽतिधीरा
पत्याऽऽपत्यापनीयान्मुदितसमपराधिमं बाधमम्बा ॥४॥
पू. आ. श्रीमद् शोभनदेवसूरीश्वरमहाराजप्रणीतायमकबद्ध
स्तुतिचतुर्विंशतिका अथ श्रीआदिजिनस्तुतिः ।
१ ( शार्दूलविक्रीडितवृत्तम् ) भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली
रम्भासामज! नाभिनन्दन ! महानष्टापदाभासुरैः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org