________________
२९२
सप्तमस्तर
वाग्देवी वरदीभूत-पुस्तिकाऽऽपद्मलक्षितौ । आपोऽव्याद् बिभ्रती हस्तौ, पुस्तिकापद्मलक्षितौ ॥४॥
अथ श्रीमुनिसुव्रतजिनस्तुतिः ।
१ (द्रुतविलम्बितवृत्तम् ) जयसि सुव्रत ! भव्यशिखण्डिना-मरहितायघनाञ्जननीलताम् । दधदलं फलयंश्च समं भुवा-ऽमरहितापधनां जननीलताम् ॥ १॥ प्रतिजिनं क्रमवारिरुहाणि नः,सुखचितानि हितानि नवानि शम् । दधति रान्तु पदानि नखप्रभा-सुखचितानि हि तानिनवानिशम् ॥२॥ जयति तत् समुदायमयं दृशा-मतिकवी रमते परमे धने ।। महति यत्र विशालबलप्रभा-मतिकवीरमते परमेधने ॥३॥ श्रुतनिधीशिनि ! बुद्धिवनावली-दवमनुत्तमसारचिता पदम् । भवभियां मम देवि ! हरादरा-दवमनुत् तमसा रचितापदम् ॥४॥
अथ नमिजिनस्तुतिः ।
१ (गीतिवृत्तम् ) विपदां शमनं शरणं, यामि नर्मि दूयमानमनुजनतम् । सुखकुमुदौघविकाशे, यामिनमिन्दूयमानमनुजनतम् ॥१॥ यैर्भठयजनं त्रातुं, येते भवतोऽजिनास्थिरहिता ये। ईशा निदधतु सुस्था-ये ते भवतो जिना स्थिरहिताये ॥२॥ जिनशासनं विजयते, विशदप्रतिभानवप्रभङ्गमवत् । त्रिजगद् भवकान्तारं, बिमदप्रतिभानवप्रभं गनवत् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org