________________
भाबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका घण्टेन्द्रशस्त्रं सफलाक्षमालं,नृस्था बहन्ती विमला क्षमाऽलम् । वरेषु वः पातु तमालकान्ता, देवी महाकाल्यसमालकान्ता ॥ ४ ॥
अथ श्रीअरजिनस्तुतिः 1
१ ( अनुष्टुप्वृत्तम् ) स्तुत तं येन निर्वृत्या-मरञ्जि नवरञ्जनाः 1 विहाय लक्ष्मीर्जगता-मरं जिनवरं जनाः ! ॥१॥ त्रिलोकी फलयन् पातु, सद्मनः पादपां स वः । जिनौघो यस्य वन्द्याः श्री- सद्मनः पादपांसवः ॥ २ ॥ जैन्यव्याद् वाक् सतां दत्त-माननन्दा न वादिभिः । जय्या स्तुता च नीतीना-माननं दानवादिभिः ॥३॥ श्यामा नागास्त्रपत्रा वो, वैरोट्यारं भयेऽवतु । शान्तोऽरातिर्ययाऽत्युग्र-बैरोऽट्यारम्भयेव तु ॥४॥
अथ श्रीमल्लिजिनस्तुतिः ।
१ ( अनुष्टुप्वृत्तम् ) करोतु नो मल्लिजिनः, प्रियं गुरु चिरं हतिम् । द्विषां च तन्यात् सिद्धेश्व, प्रियङ्गरुचिरंहतिम् जैनं जन्म श्रियं स्वर्ग-समग्रामं दधातुनः । क्षणदं मेरुशिरसः, समसामन्दधातुनः जिनस्य भारतीं तमो-वनागसङ्घनाशनीम् उपेत हेतुमुन्नता-वनागसं घनाशनीम्
॥१॥
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org