SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सप्तमस्तरमा यस्तं नमामि विहितावमहानिशान्त, शान्तिं जिनं परमशान्तिमहानिशान्तम् ॥ १ ॥ यद्वाहवो वरपुरीपरमार्गलाभाः, प्राप्ता यतश्च जगता परमार्गलाभाः । नत्वा च यस्तुिलितवैबुधराजि नाऽऽस्ते, सिद्धौ जयन्त्यघदवाम्बुधरा जिनास्ते ॥२॥ यच्छृण्वतोऽत्र जगतोऽपि समाऽधिकारं, बुद्धिर्भवत्यनुपतापि समाधिकारम् । तत् पावकं जयति जैनवचो रसादि भोगातिलोलकरणानवचोरसादि ॥३॥ धत्ते गदाक्षमिह दृपतिताञ्जनस्य, कान्ति च या गतवती पतितां जनस्य । आमोदलोलमुखरोपरिपातुकाली, पद्मो यदासनमसौ परिपातु काली ॥४॥ अथ श्रीकुन्थुजिनस्तुतिः । १ ( इन्द्रवज्रावृत्तम् ) हन्तुं महामोहतमोऽक्षमाणा-मोजो नृणां योऽकृत मोक्षमाणा । यं चार्तिकृच्छ्राज्जनताऽऽप देवः, स्थाप्यात् स कुन्थुः शिवतापदे वः ॥१॥ संसाररूपः सुबृहन्नुदन्वा-नलचि पीडानिवहं नुदन् वा । यदर्शनात् प्रापि जनेन नाकः, स्तूयाजिनांस्तान भुवने न ना कः ? ॥२॥ वाशनी दुष्कृतपर्वताना, निर्वाणदानात् कृतपर्वतानाम् । जिनेन्द्रवाणीमवदातनिष्ठां, समाश्रयध्वं स्ववदातनिष्ठाम् ॥३॥ १ इमे त्रयः श्लोकाः उपजातिवृत्तौ । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy