________________
बप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका
२८९ अथ श्रीधर्मजिनस्तुतिः ।
१ ( मालिनीवृत्तम् ) समवसरणभूमौ सजिता!दयायां,
नियतमभिदधौ यः सज्जिता! दयायाम् । जनयतु मुदमुद्यद्रागसौधर्मनामाऽ
र्चितहरिपरिपूज्यो द्रागसौ धर्मनामा ॥१॥ यदुदयमधिगम्य ब्यापदानन्दमञ्च
जगदुपरतहिंसं व्याप दानं दमं च । ददतु पदमुरुश्रीतेजि नानाशयं तु,
प्रतिभयमिह नोऽधं ते जिना नाशयन्तु ॥२॥ परसमयरिपूणां संसदो दारहेतौ,
विहितविवतमोहासं सदोदारहेतौ । जिनवचसि रता स्तापद्धतौ सत्यनीती,
___ दिविजमनुजलक्ष्मीपद्धतौ सत्यनीतौ ॥३॥ असिफलकमणिश्रीकुण्डिकाहस्तिकाऽलं,
प्रबलरिपुवनानां कुण्डिका हस्तिकालम् । मृगपतिमधिरूढा सा महामानसी मा
मवतु सुतडिदाभाऽसामहा मानसीमा ॥४॥
अथ श्रीशान्तिजिनस्तुतिः ।
१ (वसन्ततिलकावृत्तम् ) भव्यैः कथश्चिदतिदुःखगभीरवापे
रुत्तारको जगति सम्यगभीरवापे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org