________________
२८८
सप्तमस्त
शमिताखिलरुजि नानां-भोजोदरलालितेऽतिचारु जिनानाम् । चरणयुगे दिविजनते, भक्तिं कुरु दुर्लभे भुवि जनते ! ॥ २ ॥ विजितवती सुरवं द्या-मापूरितवन्तमम्बुदं सुरवन्द्या । वीरस्य भवादवताद्, वाणी केनापि न विजिता वादवता ॥ ३॥ पविमुशलकरा लाभ, शुभं क्रियादधिवसन्त्यतिकरालाभम् । कमलं रागान्धारी--रणकृन्नीलप्रभोत्करा गान्धारी ॥४॥
॥१॥
अथ श्रीअनन्तजिनस्तुतिः ।
१ ( पृथ्वीवृत्तम् ) निरेति गदवल्लरीगुपिलजन्मकान्तारतः,
प्रणम्य यमनीप्सितोपनतदिव्यकान्तारतः । अनन्तजिदसौ जयत्यभिमतायदो घस्मरः,
समस्तजगदंहसां हतकृतापदोघस्मरः भवन्ति न यदानता वरविधावलीकाननाः,
श्रुतज्वलनभस्मसात्कृतभवावलीकाननाः । प्रपश्चितजगबृहदरितकूपतारा जिना,
जयन्ति वपुषेह तेऽनुपमरूपताराजिना अवन्त्यखिलविष्टपाश्रितसभाजनासूनृता,
___ जयत्यमरयोगिभिः कृतसभाजना सूनृता । जिनेन्द्रगदिता नयादिवसुपाऽत्र गीर्वाणता
मिता रिपुविभेदने कृतसुपात्रगीर्वाणता निजाङ्गलतयोज्ज्वला विशदबन्धुजीवाभया,
सिताङ्गविहगा हतानमदबन्धुजीवाऽभया । ज्वलज्ज्वलनहेतिका हरतु मानसीतापदं,
शुभातिशयधान्यवृद्धथनुपमानसीता पदम्
॥
२
॥
॥३॥
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org