________________
२८७
बीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका आनन्दितभव्यजनं, घनाघधर्मार्तशिशिरशुभव्यजनम् । अभिवन्दे जिनदेव-क्रमयुगलं सद्गुणैः सदाऽजिनदेव ! ॥२॥ जैनमुपमानरहितं, वचो जगत्त्राणकारि नो पुनरहितम् । प्रणमत सन्महिमकरं, भव्यमहाकुमुदबोधजन्महिमकरम् ॥३॥ या द्युतिविजितमाला, पविफलघण्टाक्षभृल्लसत्ततमाला । नृस्था सुषमं तनुता-दसौ महाकाल्यमय॑सामन्तनुता ॥४॥
अथ श्रीवासुपूज्यजिनस्तुतिः ।
१ ( अनुष्टुप्वृत्तम् ) श्रीमते वासुपूज्याय, ज्यायसे जगतां नमन् ।
न मन्दोऽपि क्षणादेव, देवपूज्यो न जायते ? ॥१॥ ये स्नापिताः सुरुचितै, रुचितैर्दानवारिभिः ।
वारिभिर्वितते मेरौ, ते मे रौद्रं हरन्त्वघम् ॥२ ।। अनादिनिधनाऽदीना, धनादीनामतिप्रदा ।
मतिप्रदानमादेया-ऽनमा देयाजिनेन्द्रवाक् ॥३॥ सौवर्णपट्टा श्रीगौरी, श्रीगौरी पद्महस्तिका ।
हस्तिकाया महागोधा-ऽऽगोधामध्वस्तयेऽस्तु वः ॥४॥
अथ श्रीविमलजिनस्तुतिः ।
१. (आर्यागीतिवृत्तम् ) निजमहिमविजितकमलं, प्रमदभरानम्रदेवपूजितकलम् । विमलस्य धामयुगलं-घनीयगुणसम्पदभिनुत क्रमयुगलम् ॥१॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org