________________
२८६
सप्तमस्त
अथ श्रीशीतलजिनस्तुतिः
१ ( मालिनीवृत्तम् ) विहरति भुवि यस्मिन् देवलोकोपमानः,
समजनि नरलोकः शीललोऽकोपमानः । ऋजिमसलिलधाराधौतमायापरागः,
___ स भवतु भवभीतेः संशमायापरागः ॥१॥ यमभिनवितुमुच्चैर्दिव्यराजीववार
स्थितचरणसरोजं भव्यराजी ववार । जिनवरविसरं तं पापविध्वंसदक्षं,
___शरणमित विदन्तो मा स्म विद्ध्वं सदक्षम् ॥२॥ पटुररितिमिरौघव्याहतावर्यमेव,
प्रवितरति जनेभ्यो यः सदा वर्यमेव । स हि बहुविधजन्मजातजैनःकृतान्तः,
कृतकुमतिविघातः पातु जैनः कृतान्तः ॥३॥ भ्रमति भुवि महिष्या याऽऽमहासिन्धु नाना--
कृतजिनगृहमालासन्महाऽसिं धुनाना । कनकनिभवपु:श्रीरञ्जसा साधिताया,
रुजतु पुरुषदत्ताऽस्मासु सा साधितायाः ॥४॥
अथ श्रीश्रेयांसजिनस्तुतिः ।
१ ( आर्यागीतिवृत्तम् ) विमलितबहुतमसमलं, स्फुरत्प्रभामण्डलास्तसन्तमसमलम् । सकलश्रीश्रीयांसं, प्रणमत भक्तथा जिनेश्वरं श्रेयांसम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org