________________
२८४
सप्तमस्तरमा
न ह्येकधैव विजये बहुधा तु सारं,
वाङ्कशं धृतवती विदधातु साऽरम् ॥ ४॥
अथ श्रीसुपार्थजिनस्तुतिः ।
१ ( अनुष्टुप्वृत्तम् ) आशास्ते यः स्तवै युष्मा-नित्यसौ ख्यातिभाजनः ।
श्रीसुपार्श्व! भवत्येव, नित्यसौख्यतिभा जनः ॥ १॥ जिनांही नौमि यौ जुष्टा-बानतामरसंसदा ।
आरूढौ दिव्यसौवर्णा-वानतामरसं सदा ॥२॥ यशो धत्ते न जातारि-शमना विलसन् न या ।
साऽहंती भारती दत्तां, शमनाविलसन्नया ॥३॥ आरूढा गरुडं हेमा-भाऽसमा नाशितारिभिः ।
पायादप्रतिचक्रा वो, भासमाना शितारिभिः ॥४॥
अथ श्रीचन्द्रप्रभजिनस्तुतिः ।
१ (पृथ्वीवृत्तम् ) भवोद्भवतृषां भृशं कृतशिवप्रपं चामरैः,,
सहर्षमुपवीजितं वरवपुःप्रपञ्चामरैः । प्रभावलयकान्ततापहसितोरुचन्द्रप्रभं,
प्रणौमि परमेश्वरं विनयचार चन्द्रप्रभम् ॥ १॥ अवन्तु भवतो भवात् कलुषवासकादर्पकाः,
सुखातिशयसम्पदा भुवनभासकादर्पकाः।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org