________________
श्रीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका
२८३ पोतत्वं वै भवोदधौ, पततां यो गुरुवैभवो दधौ। वितरतु सोऽतामसं वरं, 'निवहस्तीर्थकृतामसंवरम् ॥२॥ छिन्ते भववासदाम या, जिनवाक् साऽतिशिवा सदा मया। विनताऽभ्यधिकामसङ्गतां, यच्छतु च च्युतकामसङ्गताम् ॥३॥ संस्मरत रतां कुशेशये, कनकच्छविं दुरिताङ्कशे शये। अहिताद्रिहवज्रशृङ्खलां, धरमाणामिह वज्रशृङ्खलाम्
__ अथ श्रीपद्मप्रभजिनस्तुतिः ।
१ ( वसन्ततिलकावृत्तम् ) वर्णेन तुल्यरुचिसम्पदि विद्रुमाणां,
व पुष्पोत्करैः सुरगणेन. दिवि द्रुमाणाम् । अभ्यर्चिते प्रमदगर्भमजे यशस्ये,
. पद्मप्रभे कुरुत भक्तिमजेयशस्ये ॥१॥ ये मज्जनोदकपवित्रितमन्दरागा
स्तोषेण यानलमुपासत मन्दरागाः । धर्मोदयाब्धिपतने वनराजिनाव
स्ते पान्तु नन्दितसदेवनरा जिना वः ॥२॥ शच्यादिदिव्यवनितौघधवस्तुत ! त्व
मव्याहत्तोदितयथाविधवस्तुतत्त्व!। स्थानं जिनेन्द्रमत ! नित्यमकम्प्रदेहि,
जन्माद्यनन्तविपदों शमकं प्रदेहि ॥३॥ अध्यास्त या कनकरुक् सितवारणेशं,
. वाङ्कुशी पटुतराऽहितवारणे शम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org