________________
२८२
सप्तमस्तरका
जना ! जिनवरागर्म भजत तं महासम्पदं,
यदीप्सथ सुखात्मकं विगतकामहासं पदम् ॥३॥ शराक्षधनुशङ्खभृन्निजयशोवलक्षा मता,
कृताखिलजगज्जनाहितमहाबलक्षामता । विनीतजनताविपद् द्विपसमुद्धयभिद्रोहिणी,
ममास्तु सुरभिस्थिता रिपुमहीध्रभिद् रोहिणी ॥ ४॥
अथ श्रीअभिनन्दनजिनस्तुतिः।
१ (वैतालीयवृत्तम् ) अभयीकृतभीतिमजनः, सुरपकृतातुलभूतिमजनः । यो भव्यमनोऽभिनन्दनः, शिवदः सोऽस्तु जिनोऽभिनन्दनः ।।१॥ रक्षन्त्यचरं त्रसं च ये, कृतचरणाः शतपत्रसञ्चये। अपवर्गोपायशोधनाः, ते वः पान्तु जिना यशोधनाः ॥२॥ व्याप्ताखिलविष्टपत्रया, पदचम्वा नयपुष्टपत्रया । । या मुनिभिरभाजि नो दिता, सा वागस्तु मुदे जिनोदिता ॥३॥ तन्वाऽब्जमहादलाभया, सह शक्तयाऽतुलमोदलाभया। मम भवतु महाशिखण्डिका, प्रज्ञप्ती रिपुराशिखण्डिका ॥४॥
अथ श्रीसुमतिजिनस्तुतिः।
१ (वैतालीयवृत्तम् ) कुर्वन्तमुरुप्रभं जनं, नम्रमनङ्गतरुप्रभञ्जनम् । भक्त्या नुत सन्महोदय, सुमतिजिनं विकसन्महोदयम् ॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org