________________
श्रीबप्पभट्टिसू. प्रणीता-स्तुतिचतुर्विंशतिका
२८१
अथ श्रीअजितजिनस्तुतिः ।
१ (द्रुतविलम्बितवृत्तम् ) कुसुमबाणचमूभिरपीडित-स्त्रिभिरतीव जगद्भिरपीडितः । सकललोकमवन वृजिनाऽऽजितः, शमयताहरितानि जिनाजितः ॥ १॥ कृतवतोऽसुमतां शरणान्वयं, सकलतीर्थकृतां चरणान् वयम् । सुरकृताम्बुजगर्भनिशान्तकान , रविसमान प्रणुमोऽघनिशाऽन्तकान् ॥२॥ कृतसमस्तजगच्छुभवस्तुता, जितकुवादिगणाऽस्तभवस्तुता। अवतु वः परिपूर्णनभा रति-नृमरुतरे ददति जिनभारती ॥३॥ सुफणरत्नसरीसृपराजितां, रिपुबलप्रहतावपराजिताम् । स्मरत तां धरणाग्रिमयोषितं, जिनगृहेषु ययाऽश्रमयोषितम् ॥४॥
अथ श्रीसम्भवजिनस्तुतिः ।
१ ( पृथ्वीवृत्तम् ) नमो भुवनशेखरं दधति ! देवि! ते बन्दिता
मितिस्तुतिपराऽगमत्रिदशपावली वन्दिता । यदीयजननीं प्रति प्रणुत तं जिनेशं भवं,
निहन्तु मनसः सदाऽनुपमवैभवं शम्भवम् ॥१॥ सुमेरुगिरिमूर्धनि ध्वनदनेकदिव्यानके,
सुरैः कृतमवेक्ष्य यं मुमुदिरेऽतिभव्या न के। जगत्रितयपावनो जिनवराभिषेको मलं,
सदा स विधुनोतु नोऽशुभमयं पनाकोमलम् ॥ २॥ अपेतनिधनं धनं बुधजनस्य शान्तापदं,
प्रमाणनयसङ्कुलं भृशमसदृशां तापदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org