________________
सप्तमस्तरङ्गः
पू. आ. श्रीमद्बप्पभट्टिसूरीश्वरजीमहाराजप्रणीता
स्तुतिचतुर्विंशतिका। अथ श्रीआदिनाथजिनस्तुतिः ।
१ ( वसन्ततिलकावृत्तम् ) ननेन्द्रमौलिगलितोत्तमपारिजात -
मालार्चितक्रम ! भवन्तमपारिजात ! । नाभेय ! नौमि भुवनत्रिकपापवर्ग
__ दायिन् ! जिनास्तमदनादिकपापवर्ग! ॥१॥ दारिद्रयमद्रिसमविग्रहतापनीय
राशीप्रदानविधिना महताऽपनीय। यैर्दुःखशत्रुरिहजन्मवतामघानि,
विघ्नन्तु ते जिनवरा भवतामघानि ॥२॥ यदोषदारुदहनेषु रतः कृशानुः,
स्यादापदुर्व्यपि हि यत्स्मरतः कृशा नुः। यद्वृष्टिरेव परिदाहिषु मेघजाऽलं,
जैनं मतं हरतु तद् गुरु मेऽघजालम् ॥३॥ यां द्राग्भवन्ति सुरमन्त्रिसमा नमन्तः,
संत्यज्य मोहमधियोऽप्यसमानमन्तः । वाग्देवता हतकुवादिकुला भवर्णात् ,
सा पातु कुन्दविकसन्मुकुलाभवर्णा ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org