________________
२२
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(लोप) होता है। 'झलां जशोऽन्ते ( ८1२ 1३९) से 'षष्' के षकार को जश् डकार और 'वाऽवसाने' (८/४/२६ ) से डकार को चर् टकार होता है। ऐसे ही 'षष्' शब्द से 'शस्' प्रत्यय करने पर - षट् । ऐसे ही पञ्च, सप्त, नव, दश ।
लुक्-आदेशः
(२३) स्वमोर्नपुंसकात् । २३ ।
प०वि० - सु-अमो: ६ । २ नपुंसकात् ५ । १ ।
स०-सुश्च अम् च तौ स्वमौ तयो:- स्वमो: (इतरेतरयोगद्वन्द्वः) । अनु० - अङ्गस्य, प्रत्ययस्य लुगिति चानुवर्तते । अन्वयः-नपुंसकाद् अङ्गात् स्वमोर्लुक् ।
अर्थः-नपुंसकाद् अङ्गाद् उत्तरयोः स्वमोः प्रत्यययोर्लुग् भवति । उदा०- (सु) दधि तिष्ठति । मधु तिष्ठति । त्रपु तिष्ठति । जतु तिष्ठति । (अम्) त्वं दधि पश्य । मधु पश्य । त्रपु पश्य। जतु पश्य । आर्यभाषाः अर्थ-(नपुंसकात्) नपुंसकलिङ्ग (अङ्गात्) अङ्ग से परे (स्वमोः) सु और अम् (प्रत्यययोः) प्रत्यय का ( लुक्) लोप होता है।
उदा०-(सु) दधि तिष्ठति । दही है। मधु तिष्ठति । मधु है। त्रपु तिष्ठति । त्रपु ( सीसा, रांगा) है। जतु तिष्ठति । जतु (गोंद, लाख, शिलाजीत ) है । ( अम्) त्वं दधि पश्य । तू दही को देख । मधु पश्य । तू मधु को देख । त्रपु पश्य । तू त्रपु को देख । जतु पश्य । तू जतु को देख ।
सिद्धि - दधि । दधि+सु । दधि+0 । दधि ।
यहां नपुंसकलिङ्ग 'दधि' शब्द से 'स्वौजस०' (४ 1१ 1। २ ) से 'सु' प्रत्यय है। इस सूत्र से 'सु' प्रत्यय का लुक् होता है। ऐसे ही 'अम्' प्रत्यय करने पर - दधि । ऐसे ही - मधु, त्रपु, जतु ।
अम्-आदेशः
(२४) अतोऽम् । २४ ।
प०वि० - अत: ५ ।१ अम् १ । १ ।
अनु० - अङ्गस्य, प्रत्ययस्य, स्वमोः, नपुंसकादिति चानुवर्तते । अन्वयः-अतो नपुंसकाद् अङ्गात् स्वमोः प्रत्यययोरम् ।
अर्थः- अकारान्तान्नपुंसकाद् अङ्गाद् उत्तरयोः स्वमोः प्रत्यययोः स्थानेऽम्-आदेशो भवति ।
Jain Education International
For Private & Personal Use Only
4
www.jainelibrary.org