________________
सप्तमाध्यायस्य तृतीयः पादः
उत्तरवृद्धिप्रकरणम् आत्-आदेश:(१) देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्।१।
प०वि०- देविका-शिंशपा-दित्यवाट्-दीर्घसत्र-श्रेयसाम् ६।३ आत् १।१।
स०-देविका च शिंशपा च दित्यवाट् च दीर्घसत्रं च श्रेयाँश्च ते देविका०श्रेयाँस:, तेषाम्-देविका०श्रेयसाम् (इतरेतरयोगद्वन्द्व:)।
अनु०-अङ्गस्य, अच:, णिति, तद्धितेषु, अचाम्, आदे:, कितीति चानुवर्तते।
___ अन्वय:- देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामऽगानामऽचामादेरचस्तद्धिते णिति किति चाऽऽत् ।
अर्थ:- देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामऽङ्गानामऽचामादेरच: स्थाने, तद्धिते जिति णिति किति च प्रत्यये परत आकारादेशो भवति । __उदा०-(दविका) देविकायां भवम् उदकम् इति दाविकमुदकम् । देविका कूले भवा: शालय इति दाविकाकूला: शालयः। पूर्वदेविका नाम प्राचां ग्राम:, तत्र भव: पूर्वदाविक: । (शिंशपा) शिंशपाया विकारश्चमस इति शांशपश्चमस: । शिशपास्थले भवा इति शांशपास्थला देवा: । पूर्वशिंशपानाम प्राचां ग्राम:, तत्र भव: पूर्वशांशप: । (दित्यवाट) दित्यौह इदमिति दात्यौहम् । (दीर्घसत्रम्) दीर्घसत्रे भवमिति दार्घसत्रम् । (श्रेयान्) श्रेयसि भवमिति श्रायसम्।
आर्यभाषा: अर्थ-(देविका०) देविका, शिशपा, दित्यवाट. दीर्घसत्र, श्रेयस् (अङ्गानाम्) अगों के (अचाम्) अचों में से (आदे:) आदिम (अच:) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (ञ्णिति) जित्. णित् और (किति) कित् प्रत्यय परे होने पर (आत्) आकारादेश होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org