________________
६१२
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थः-आकारान्तस्याङ्गस्य आर्धधातुके यति प्रत्यये परत ईकारादेशो
भवति ।
उदा०-देयम् । धेयम् । हेयम् । स्थेयम् ।
आर्यभाषाः अर्थ-(आत:) आकारान्त (अङ्ग्ङ्गस्य) अङ्ग को (आर्धधातुके) आर्धधातुक (यति) यत् प्रत्यय परे होने पर ( ईत् ) ईकार आदेश होता है।
उदा०-देयम्। देना चाहिये। धेयम् । धारण-पोषण करना चाहिये। हेयम् । त्याग करना चाहिये। स्थेयम् । ठहरना चाहिये ।
सिद्धि-देयम्। दा+यत्। दा+य। द ई+य। द् ए+य। देय+सु। देयम्।
यहां 'डुदाञ् दाने' (जु०उ०) धातु से 'अचो यत्' (३ । १ / ९७ ) से 'यत्' प्रत्यय है। इस सूत्र से आकारान्त अङ्ग (दा) के अन्त्य आकार को आर्धधातुक यत्' प्रत्यय परे होने पर ईकार आदेश होता है । पुन: इसे 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से गुण (ए) हो जाता है।
ऐसे ही- डुधाञ् धारणपोषणयो:' (७।३।८४) धातु से - धेयम् । 'ओहांक् त्यागे' (जु०प०) धातु से - हेयम् । 'ष्ठा गतिनिवृत्तौ' (भ्वा०प०) धातु से - स्थेयम् । ईद्-आदेश:
(२१) घुमास्थागापाजहातिसां हलि । ६६ । प०वि०-घु-मा-स्था- गा पा जहाति साम् ६।१ हलि ६ । १ । स०- घुश्च माश्च स्थाश्च गाश्च पाश्च जहातिश्च साश्च ते घुमास्थागापाजहातिसा:, तेषाम्-घुमास्थागापाजहातिसाम् (इतरेतरयोगद्वन्द्वः) । अनु० - अङ्गस्य, आर्धधातुके क्ङिति ईत् इति चानुवर्तते । अन्वयः -घुमास्थागापाजहातिसाम् अङ्गानाम् आर्धधातुके हलि क्ङिति
,
ईत् ।
,
अर्थः-घु-संज्ञकानां स्थागापाजहातिसां चाङ्गानाम् आर्धधातुके हलादौ क्ङिति प्रत्यये परत ईकारादेशो भवति ।
,
उदा०- (घुः ) दीयते, देदीयते । धीयते देधीयते । (माः ) मीयते, मेमीयते । (स्था :) स्थीयते, तेष्ठीयते । (गाः) गीयते, जेगीयते । अध्यगीष्ट, अध्यगीषाताम् । (पाः) पीयते, पेपीयते । ( जहातिः ) हीयते, जेहीयते । (सा:) अवसीयते, अवसेलीयते ।