________________
षष्ठाध्यायस्य तृतीयः पादः
४७५
उदा०- (अप्) तदजाया भावोऽजत्वम् अजात्वम् । (आप्) तद् रोहिण्या भावो रोहिणित्वम्, रोहिणीत्वम् ( काठ०सं० ८1१ ) 1 “संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति” ( काशिका) ।
आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (ङयापोः) ङी - प्रत्ययान्त और आप्-प्रत्ययान्त शब्दों को (त्वे) त्व-प्रत्यय परे होने पर (च) भी (बहुलम् ) प्रायश: ( ह्रस्व:) ह्रस्व आदेश होता है।
उदा०- - (आप) तदजाया भावोऽजत्वम्, अजात्वम् । वह अजा (बकरी) का होना अजत्व, अजात्व कहाता है। (ङी) तद् रोहिण्या भावो रोहिणित्वम्, रोहिणीत्वम् । वह रोहिणी का होना रोहिणित्व, रोहिणीत्व कहाता है ।
सिद्धि - (१) अजत्वम् । यहां अजा शब्द से 'तस्य भावस्त्वतलों (५1१1११९ ) से 'त्व' प्रत्यय है। इस सूत्र से वेदविषय में आबन्त 'अजा' शब्द को त्व' प्रत्यय परे होने पर ह्रस्व आदेश होता है और बहुलवचन से नहीं भी होता है- अजात्वम् ।
(२) रोहिणित्वम् । यहां रोहिणी शब्द से पूर्ववत् 'त्व' प्रत्यय है। इस सूत्र से वेदविषय में ङी - अन्त रोहिणी शब्द को 'त्व' प्रत्यय परे होने पर ह्रस्व आदेश होता है और बहुलवचन से नहीं भी होता है - रोहिणीत्वम् ।
हस्वादेश:
(२०) इष्टकेषीकामालानां चिततूलभारिषु । ६५ । प०वि०-इष्टका-इषीका- मालानाम् ६ । ३ चित- तूल-भारिषु ७ । ३ । स०- इष्टका च इषीका च माला च ता इष्टकेषीकामाला:, तासाम्-इष्टकेषीकामालानाम् (इतरेतरयोगद्वन्द्वः) । चितं च तूलं च भारी च ते चिततूलभारिण:, तेषु - चिततूलभारिषु (इतरेतरयोगद्वन्द्वः ) । अनु० - उत्तरपदे, ह्रस्व इति चानुवर्तते ।
अन्वयः - इष्टकेषीकामालानां चिततूलभारिषु उत्तरपदेषु ह्रस्वः । अर्थः-इष्टकेषीकामालानां शब्दानां यथासंख्यं चिततूलभारिषु उत्तरपदेषु स्वादेशो भवति ।
उदा०-(इष्टका) इष्टकाभिश्चितमिति इष्टकचितम् । (इषीका ) इषीकाणां तूलमिति इषीकतूलम् । ( माला) मालां भर्तुं शीलमस्या इति मालभारिणी कन्या ।