________________
४३६
षष्ठाध्यायस्य तृतीयः पादः तद्धितवृत्ति:-पुंस इव इति पुंवत्। 'तत्र तस्येव' (५।१।११६) इति इवार्थे वति: प्रत्ययः ।
स०-भाषित: पुमान् येन समानायामाकृतौ एकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्क:, तस्मात्-भाषितपुंस्कात् । न ऊङ् इति अनूङ् । भाषितपुंस्काद् अनूङ् इति भाषितपुंस्कादनू, तस्या:-भाषितपुंस्कादनूङ् (बहुव्रीहिनगर्भितपञ्चमीतत्पुरुषः)। अत्रास्मादेव निपातनात् पञ्चम्या अलुग् वेदितव्यः । छन्दोवशाच्च लुप्तषष्ठीक पदमिदम्। छन्दोवत् सूत्राणि भवन्ति ।
प्रिया आदिर्येषां ते प्रियादय:, पूरणी च प्रियादयश्च ते पूरणीप्रियादयः, न पूरणीप्रियादय इति अपूरणीप्रियादय:, तेषु-अपूरणीप्रियादिषु (बहुव्रीहिद्वन्द्वगर्भितनञ्तत्पुरुषः)।
अनु०-उत्तरपदे इत्यनुवर्तते।
अन्वय:-भाषितपुंस्कादनूङ् स्त्रिया: अपूरणीप्रियादिषु स्त्रियां समानाधिकरणे उत्तरपदे पुंवत्।।
अर्थ:-भाषितपुंस्कादनूङ: यस्माद् भाषितपुंस्काच्छब्दाद् ऊप्रत्ययो न कृतस्तस्य स्त्रीलिङ्गस्य शब्दस्य पूरणीप्रियादिवर्जिते स्त्रीलिङ्गे समानाधिकरणे उत्तरपदे परत: पुंलिङ्गशब्दस्येव रूपं भवति ।
उदा०-दर्शनीया भार्या यस्य स:-दर्शनीयभार्यः। श्लक्ष्णचूडः । दीर्घजङ्घः ।
प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा। भक्ति: । सचिवा। अम्बा । कान्ता । क्षान्ता । समा। चपला। दुहिता । वामा । इति प्रियादयः ।।
आर्यभाषा: अर्थ-(भाषितपुंस्कादनूङ्) जिस शब्द ने समान आकृति में अर्थात् एक प्रवृत्तिनिमित्त में पुंलिङ्ग अर्थ को कहा है उस ऊङ्-प्रत्यय से रहित (स्त्रियाः) स्त्रीलिङ्ग शब्द के स्थान में (अपूरणीप्रियादिषु) पूरण-प्रत्ययान्त और प्रिया आदि शब्दों से भिन्न (स्त्रियाम्) स्त्रीलिङ्ग (समानाधिकरणे) समानाधिकरणवाला (उत्तरपदे) उत्तरपद रे होने पर (पुंवत्) पुंलिङ्गावाची शब्द के समान होता है।
उदा०-दर्शनीयभार्य: । वह पुरुष कि जिसकी भार्या (पत्नी) दर्शनीया है। श्लक्ष्णचूडः । वह पुरुष कि जिसकी चूडा (चोटी) कोमल है। दीर्घजङ्घः । वह पुरुष कि जिसकी जांघ दीर्घ हैं।