________________
षष्ठाध्यायस्य तृतीयः पादः
४३१
उदा००- ( विद्यासम्बन्ध) होतुरन्तेवासी । होता नामक ऋत्विक् का शिष्य । होतुःपुत्रः । होता नामक ऋत्विक् का पुत्र । (योनिसम्बन्ध ) पितुरन्तेवासी । पिता का शिष्य । पितुः पुत्रः । पिता का पुत्र ।
सिद्धि-होतुरन्तेवासी। यहां होतृ और अन्तेवासी शब्दों का 'षष्ठी' (२/२४८) से षष्ठीतत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में ऋकारान्त विद्या-सम्बन्धवाची होतृ-शब्द से परे षष्ठीविभक्ति का अन्तेवासी उत्तरपद होने पर अलुक् होता है।
'होतु:' शब्द में - होतृ + ङस् । होतृ+अस् । हो त् उ र्+स् । होतुर् +० । होतुः । षष्ठीविभक्ति का ङस् प्रत्यय, 'ऋत उत्' (६ ।१ ।११) से ऋकार और अकार के स्थान में उकार आदेश, उसे 'उरण् रपरः ' (१1१/५१) से रपरत्व और 'रात्सस्य' (८।२।२४) से सकार का लोप होता है। ऐसे ही होतुः पुत्रः । पितुरन्तेवासी, पितुः पुत्रः ।
षष्ठी-अलुग्विकल्पः
(२४) विभाषा स्वसृपत्योः । २४ । प०वि०-विभाषा १।१ स्वसृ-पत्योः ७।२।
स०-स्वसा च पतिश्च तौ- स्वसृपती, तयो: स्वसृपत्योः (इतरेतरयोगद्वन्द्वः) ।
अनु० - अलुक, उत्तरपदे, तत्पुरुषे षष्ठ्याः, ऋत:, विद्यायोनिसम्बन्धेभ्य इति चानुवर्तते ।
अन्वयः- तत्पुरुषे ऋतो विद्यायोनिसम्बन्धेभ्यः षष्ठ्याः स्वसृपत्योर्विभाषाऽलुक् ।
'
अर्थः- तत्पुरुषे समासे ऋकारान्तेभ्यो विद्यासम्बन्धवाचिभ्यो योनिसम्बन्धवाचिभ्यश्च शब्देभ्यः परस्याः षष्ठ्याः स्वसृपत्योः शब्दयोरुत्तरपदयोर्विकल्पेनाऽलुग् भवति ।
अत्र स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्ध एव सम्भवति, न विद्या
सम्बन्धः ।
उदा०-(स्वसा) मातु: स्वसा इति मातुःष्वसा, मातुःस्वसा, मातृष्वसा । (पतिः) दुहितुः पतिरिति दुहितुःपतिः, दुहितृपतिः । ननान्दुःपतिः, ननान्दृपतिः ।