________________
षष्ठाध्यायस्य द्वितीयः पादः
३८५
विकल्प पक्ष में व्याघ्र शब्द को पूर्ववत् पूर्वपद को प्रकृतिस्वर होता है । व्याघ्र शब्द में वि- आङ् - उपसर्गपूर्वक 'घ्रा गन्धोपादाने' (रुधा०प०) धातु 'आतश्चोपसर्गे (३ । १ । १३६ ) से 'क' प्रत्यय है । अत: यह प्रत्ययस्वर से अन्तोदात्त है । 'व्याघ्र' शब्द में पाघ्राध्माधेट्दृश: श:' (३ | १ | १३७ ) से 'श' प्रत्यय नहीं है क्योंकि वहां वा०- जिघ्रतेः संज्ञायां प्रतिषेधः ' (३ । १ । १३७ ) से संज्ञा विषय में श-प्रत्यय का प्रतिषेध किया गया है।
अन्तोदात्तम्
(२८) जातिकालसुखादिभ्योऽनाच्छदनात् क्तोऽकृतमितप्रतिपन्नाः । १७० ।
प०वि०-जाति-काल-सुखादिभ्यः ५ । ३ अनाच्छदनात् ५ ।१ क्तः १ ।१
अकृत-मित-प्रतिपन्नाः १ । ३ ।
स०-सुखम् आदर्येषां ते सुखादय: । जातिश्च कालश्च सुखादयश्च ते जातिकालसुखादयः, तेभ्य:- जातिकालसुखादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । आच्छाद्यतेऽनेनेति आच्छादनम्, न आच्छादनमिति अनाच्छादनम्, तस्मात्-आच्छादनात् (नञ्तत्पुरुषः) । करणाधिकरणयोश्च' (३ ।३ ।११७) इति करणे कारके ल्युट् प्रत्ययः । कृश्च मितश्च प्रतिपन्नश्च ते कृतमितप्रतिपन्ना:, न कृतमितप्रतिपन्ना इति अकृतमितप्रतिपन्नाः (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः ) ।
अनु०-उदात्त:, उत्तरपदम्, अन्त:, बहुव्रीहाविति चानुवर्तते । अन्वयः - बहुव्रीहौ अनाच्छादनाज्जातिकालसुखादिभ्योऽकृतमितप्रतिपन्नाः क्त उत्तरपदम् अन्त उदात्त: ।
अर्थ:-बहुव्रीहौ समासे आच्छादनवर्जितेभ्यो जातिवाचिभ्यः कालवाचिभ्यः सुखादिभ्यश्च शब्देभ्यः परं कृतमितप्रतिपन्नवर्जितं क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति ।
उदा०-(जाति:) सारङ्गो जग्धो येन सः - सारङ्गजग्ध: । पलाण्डुभक्षितः। सुरापीतः । ( कालः) मासो जातो यस्य सः - मासजातः । संवत्सरजातः। द्व्यहजात: । त्र्यहजातः । ( सुखादिः) सुखं जातं यस्य सः-सुखजातः । दुःखजात: । प्रजातः ।