________________
३४७
षष्टाध्यायस्य द्वितीयः पादः
३४७ आधुदात्तप्रतिषेधः
(२३) नाचार्यराजर्विक्संयुक्तज्ञात्याख्येभ्यः ।१३३।
प०वि०-न अव्ययपदम्, आचार्य-राज-ऋत्विक्-संयुक्त-ज्ञात्याख्येभ्य: ५।३।
स०-आचार्यश्च राजा च ऋत्विक् च संयुक्तश्च ज्ञातिश्च ता:-आचार्यराजविंक्संयुक्तज्ञातयः, आचार्यराजविक्संयुक्तज्ञातय आख्या येषां तेआचार्यराजविंक्संयुक्तज्ञात्याख्या:, तेभ्य:-आचार्यराजविक्संयुक्तज्ञात्याख्येभ्य: (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। ___ अनु०-उदात्त:, उत्तरपदादिः, तत्पुरुष, पुत्र इति चानुवर्तते ।
अन्वयः-तत्पुरुषे आचार्य राजविक्संयुक्तज्ञात्याख्येभ्यः पुत्र उत्तरपदादिरुदात्तो न।
अर्थ:-तत्पुरुष समासे आचार्यविक्संयुक्तज्ञात्याख्येभ्य: पुत्र-शब्द उत्तरपदमायुदात्तं न भवति।
उदा०-(आचार्य:) आचार्यस्य पुत्र इति आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । (राजा) राज्ञ: पुत्र इति राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । (ऋत्विक्) ऋत्विज: पुत्र इति ऋत्विकपुत्र: । याजकपुत्र: । होतु:पुत्रः । (संयुक्त:) संयुक्तस्य पुत्र इति संयुक्तपुत्र: । सम्बन्धिपुत्रः । श्यालपुत्रः । (ज्ञाति:) ज्ञाते: पुत्र इति ज्ञातिपुत्र: । स्वपुत्र: । भ्रातुष्पुत्रः ।
अत्राऽऽख्याशब्दग्रहणात् तत्स्वरूपस्य तत्पर्यायाणां तद्विशेषाणां च शब्दानां ग्रहणं क्रियते।
आर्यभाषा: अर्थ-(तत्पुरुष) तत्पुरुष समास में (आचार्यराजविंक्संयुक्तज्ञात्याख्येभ्य:) आचार्य, राजा, ऋत्विक, संयुक्त और ज्ञाति शब्दों, इनके पर्यायवाची तथा इनके विशेषवाची शब्दों से परे (पुत्र:) पुत्र-शब्द (उत्तरपदादिः, उदात्त:) उत्तरपद में आधुदात्त (न) नहीं होता है।
उदा०-(आचार्य) आचार्यपुत्रः । आचार्य का पुत्र (स्वरूप) । उपाध्यायपुत्रः । उपाध्याय का पुत्र (पर्यायवाची)। शाकटायनपुत्रः । शाकटायन का पुत्र (आचाविशेष) । (राजा) राजपुत्रः । राजा का पुत्र (स्वरूप)। ईश्वरपुत्रः । ईश्वर का पुत्र (पर्यायवाची)। नन्दपुत्रः । नन्द का पुत्र (राजाविशेष)। (ऋत्विक्) ऋत्विकुपुत्रः । ऋत्विक् का पुत्र (स्वरूप)।