________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-कारीषगन्ध्या बन्धुर्यस्य स:-कारीषगन्धीबन्धुः । कौमुदगन्धीबन्धुः।
आर्यभाषा: अर्थ- (बहुव्रीहौ) बहुव्रीहि समास में (बन्धुनि) बन्धु शब्द उत्तरपद होने पर (ष्यङ्) ष्यङ् को (सम्प्रसारणम्) सम्प्रसारण होता है।
उदा०-कारीषगन्ध्या नारी है बन्धु जिसकी वह-कारीषगन्धीबन्धु । कौमुदगन्ध्या नारी है बन्धु जिसकी वह-कौमुदगन्धीबन्धु।
सिद्धि-कारीषगन्धीबन्धु। यहां कारीषगन्ध्या और बन्धु शब्दों का बहुव्रीहि समास है। बन्धु शब्द उारपद होने पर इस सूत्र से ष्यङ् को सम्प्रसारण होता है। शेष कार्य पूर्ववत् है। ऐसे ही-कौमुदगन्धीबन्धुः । किति सम्प्रसारणम्
(३) वचिस्वपियजादीनां किति।१५। प०वि०-वचि-स्वपि-यजादीनाम् ६।३ किति ७।१ ।
स०-यज आदिर्येषां ते यजादयः, वचिश्च स्वपिश्च यजादयश्च ते वचिस्वपियजादय:, तेषाम्-वचिस्वपियजादीनाम् (इतरेतरयोगद्वन्द्वः)। क इद् यस्य स कित्, तस्मिन्-किति (बहुव्रीहिः) ।
अनु०-धातो:, सम्प्रसारणम् इति चानुवर्तते, ष्यङ इति निवृत्तम् । अन्वय:-वचिस्वपियजादीनां धातूनां किति सम्प्रसारणम् ।
अर्थ:-वचिस्वपियजादीनां धातूनां किति प्रत्यये परत: सम्प्रसारणं भवति।
उदा०-(वचि:) उक्तः, उक्तवान्। (स्वपि:) सुप्त:, सुप्तवान् । (यजादि:) इष्टः, इष्टवान्। (वप) उप्त:, उप्तवान्। इत्यादिकम् ।
यज देवपूजासङ्गतिकरणदानेषु (उ०)। डुवप बीजसन्ताने छेदने च (उ०)। वह प्रापणे (उ०)। वस निवासे (प०)। वेञ् तन्तुसन्ताने (उ०) व्यञ् संवरणे (उ०)। हेञ् स्पर्धायां शब्दे च (उ०) । वद व्यक्तायां वाचि (प०) । टुओश्वि गतिवृद्ध्यो: (प०) । इति भ्वाद्यन्तर्गतो यजादिगणः ।।
___ आर्यभाषा: अर्थ- (वचिस्वपियजादीनाम्) वच्. स्वप् और यजादि (धातो:) धातुओं को (किति) कित् प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण होता है।