________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
१६४
प्रत्ययात् पूर्वमुदात्तम्–
(३५) भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वं पिति । १८६ |
प०वि०- भी-ही-भू-हु-मद- जन-धन- दरिद्रा - जागराम् ६ । ३ प्रत्ययात् ५ ।१ पूर्वम् १।१ पिति ७ ।१ ।
सo - भीश्च ह्रीश्च भृश्च हुश्च मदश्च जनश्च धनश्च दरिद्राश्च जागृश्च ते-भी०जागरः तेषाम् - भी०जागराम् (इतरेतरयोगद्वन्द्वः) । प इद् यस्य स पित्, तस्मिन् - पिति ( बहुव्रीहि: ) ।
अनु०-उदात्त:, लसार्वधातुकम्, अभ्यस्तानाम् इति चानुवर्तते । अन्वयः-अभ्यस्तानां भीह्रीभृहुमदजनधनदरिद्राजागरां पिति लसार्वधातुके प्रत्ययात् पूर्वमुदात्तम् ।
अर्थः-अभ्यस्तसंज्ञकानां भीहीभृहुमदजनधनदरिद्राजागरां धातूनां पित लसार्वधातुके प्रत्यये परतः प्रत्ययात् पूर्वमुदात्तं भवति ।
उदा० - ( भी ) वि॒भेति॑ । ( ही ) जिह्रेति । (भृः) बिभर्ति । (हुः ) जु॒होति॑ । (मदः ) म॒मत्तु॑ नः परिज्मा ( तै०सं० २।१।११।१) । (जन: ) जजनदिन्द्रम् (तै०आ० ३।२।१) । (धनः ) धनत् ( तै०ब्रा० २।८।३ । ५) । ( दरिद्रा :) द॒रि॒द्राति॑ । (जागृः ) जागर्ति' ।
उदा०-1
आर्यभाषाः अर्थ- (अभ्यस्तानाम्) अभ्यस्त - संज्ञक (भी० जागराम्) भी, ह्री, भृ, मद, जन, धन, दरिद्रा, जागृ धातुओं को (पिति) पित् (लसार्वधातुके) ल-सार्वधातुक प्रत्यय परे होने पर (प्रत्ययात्) प्रत्यय से (पूर्वम्) पूर्ववर्ती अच् (उदात्त:) उदात्त होता है। (भी) बिभेति । वह डरता है । ( ही ) जिहेति । वह लज्जा करती है। (भृ) बिभर्ति | वह धारण-पोषण करता है । (हु) जुहोति । वह यज्ञ करता है । (मद) म॒मत्तु॑' नः परिज्मा (तै०सं० २1१ 1११1१ ) । ममत्तु = वह हर्षित करे। (जन) जजनदिन्द्रम् ( तै०आ० ३।२1१) । जजनत् = वह उत्पन्न करे। (धन) दधनत् ( तै०ब्रा० २/८1३1५) । वह धनी होते हैं। ( दरिद्रा ) द॒रि॒द्वाति॑ । वह दुर्गत होता है। (जागृ) जागर्ति'। वह जागता है।
सिद्ध-वि॒भेति॑ । भी+लट् । भी+तिप् । भी+शप्+ति । भी+०+ति । भी-भी+ति । बि+भे+ति । बिभेति ।