________________
निपातनम् (सुट्)
षष्ठाध्यायस्य प्रथमः पादः
१५३
(८०) प्रस्कण्वहरिश्चन्द्रावृषी । १५१ ।
प०वि०- प्रस्कण्व - हरिश्चन्द्रौ १।२ ऋषी १ । २ ।
स०-प्रस्कण्वश्च हरिश्चन्द्रश्च तौ - प्रस्कण्वहरिश्चन्द्र (इतरेतरयोगद्वन्द्वः) । ऋषिश्च ऋषिश्च तौ ऋषी (एकशेषद्वन्द्वः ) । अनु० - संहितायाम्, सुट् इति चानुवर्तते ।
अन्वयः - संहितायां प्रस्कण्वहरिश्चन्द्रौ सुड् ऋषी । अर्थ:-संहितायां विषये ‘प्रस्कण्वहरिश्चन्द्रौ' इत्यत्र सुडागमो निपात्यते, ऋषी चेत् तौ भवतः ।
उदा०-(प्रस्कण्वः) प्रगतं कण्वम्=पापं यस्मात् सः-प्रस्कण्व ऋषिः। (हरिश्चन्द्रः ) हरिरिव चन्द्रो यस्य सः - हरिश्चन्द्र ऋषिः ।
1
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि - विषय में (प्रस्कण्वहरिश्चन्द्रौ ) प्रस्कण्व और हरिश्चन्द्र इन पदों में (सुट्) सुट् आगम निपातित है (ऋषी) यदि वे दोनों ऋषि हों उदा०- (प्रस्कण्वः) प्रगतं कण्वम् = पापं यस्मात् सः - प्रस्कण्व ऋषिः । जिससे पापाचरण चला गया है वह 'प्रस्कण्व' ऋषि | ( हरिश्चन्द्रः ) हरिरिव चन्द्रो यस् सः - हरिश्चन्द्र ऋषिः । हरि=विष्णु के समान चन्द्र है पूज्य जिसका वह - हरिश्चन्द्र ऋषि । सिद्धि - (१) प्रस्कण्वः । प्र+कण्व । प्र+सुट्+कण्व । प्र+स्+कण्व । प्रस्कण्व+सु ।
प्रस्कण्वः ।
यहां प्र और कण्व शब्दों का 'कुगतिप्रादयः' (२/२/१८) से प्रादितत्पुरुष समास है। इस सूत्र से ऋषि अर्थ में 'कण्व' शब्द के क-वर्ण से पूर्व सुट् आगम होता है। (२) हरिश्चन्द्रः । हरि + चन्द्र । हरि+सुट्+चन्द्र । हरि + स् + चन्द्र । हरि + श् + चन्द्र । हरिश्चन्द्र+सु । हरिश्चन्द्रः ।
यहां हरि और चन्द्र शब्दों का 'अनेकमन्यपदार्थे' (२।२।२४) से बहुव्रीहि समास है। इस सूत्र से ऋषि अर्थ में 'चन्द्र' शब्द के च-वर्ण से पूर्व सुट् आगम होता है । 'स्तो: श्चुना श्चुः' (८ | ४ | ३९ ) से सकार को शकार आदेश होता है।
,
निपातनम् (सुट्) -
(८१) मस्करमस्करिणौ वेणुपरिव्राजकयोः । १५२ । प०वि०-मस्कर-मस्करिणौ १ । २ वेणु - परिव्राजकयोः ७ । २ । सo - मस्करश्च मस्करी च तौ-मस्करमस्करिणौ ( इतरेतरयोगद्वन्द्वः) ।