________________
४८६
पञ्चमाध्यायस्य चतुर्थः पादः इकारादेशः
(२४) अल्पाख्यायाम् ।१३६। वि०-अल्पाख्यायाम् ७।१।
स०-अल्पस्य आख्या-अल्पाख्या, तस्याम्-अल्पाख्यायाम् (षष्ठीतत्पुरुषः)।
अनु०-समासान्ता:, बहुव्रीहौ, गन्धस्य, इद् इति चानुवर्तते। अन्वय:-बहुव्रीहावल्पाख्यायां गन्धस्य समासान्त इत्।
अर्थ:-बहुव्रीहौ समासेऽल्पाख्यायां वर्तमानस्य गन्ध-शब्दस्य प्रातिपदिकस्य समासान्त इकारादेशो भवति।
उदा०-सूपोऽल्पो यस्मिँस्तत्-सूपगन्धि भोजनम् । घृतगन्धि भोजनम् । क्षीरगन्धि भोजनम्। गन्धः अल्पमित्यर्थः ।
आर्यभाषा: अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (अल्पाख्यायाम्) अल्प-अर्थ में विद्यमान (गन्धस्य) गन्ध शब्द को (समासान्त:) समास का अवयव (इत्) इकार आदेश होता है।
उदा०-अल्प-थोड़ी है सूप-दाल जिसमें वह-सूपगन्धि भोजन। अल्प है घत जिसमें वह-घृतगन्धि भोजन । अल्प है क्षीर-दूर जिसमें वह-क्षीरगन्धि भोजन।
सिद्धि-सूपगन्धि। यहां सूप और गन्ध शब्दों का पूर्ववत् बहुव्रीहि समास है। 'सूपगन्ध' के गन्ध शब्द को इस सूत्र से समासान्त इकार आदेश है। ऐसे ही-घृतगन्धि, क्षीरगन्धि। इकारादेशः
(२५) उपमानाच्च।१३७ । प०वि०-उपमानात् ५।१ च अव्ययपदम् । अनु०-समासान्ता:, बहुव्रीहौ, गन्धस्य, इद् इति चानुवर्तते । अन्वय:-बहुव्रीहावुपमानाच्च गन्धस्य समासान्त इत् ।
अर्थ:-बहुव्रीहौ समासे उपमानवाचिन: शब्दाच्च परस्य गन्ध-शब्दस्य समासान्त इकारादेशो भवति ।
उदा०-पद्मस्येव गन्धो यस्य स:-पद्मगन्धिः। उत्पलगन्धिः । करीषगन्धिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org