________________
४५४
पाणिनीय-अष्टाध्यायी-प्रवचनम्
टच्
(११) अतेः शुनः ॥६६ प०वि०-अते: ५।१ शुन: ५।१।। अनु०-समासान्ता:, तत्पुरुषस्य, टच् इति चानुवर्तते। अन्वय:-अते: शुनस्तत्पुरुषात् समासान्तष्टच् ।
अर्थ:-अते: परस्मात् श्वन्-शब्दान्तात् तत्पुरुषसंज्ञकात् प्रातिपदिकात् समासान्तष्टच् प्रत्ययो भवति ।
उदा०-अतिक्रान्त: श्वानम्-अतिश्वो वराह: । जववानित्यर्थ: । अतिश्व: सेवकः । सुष्ठु स्वामिभक्त इत्यर्थः ।
आर्यभाषा: अर्थ-(अते:) अति शब्द से परे (शुन:) श्वन् शब्द जिसके अन्त में है उस (तत्पुरुषात्) तत्पुरुष-संज्ञक प्रातिपदिक से (समासान्तः) समास का अवयव (टच्) टच् प्रत्यय होता है।
उदा०-श्वा कुत्ते को अतिक्रान्त करनेवाला-अतिश्व वराह (सूअर)। कुत्ते से अधिक तेज दौड़नेवाला सूअर । श्वा=कुत्ते को अतिक्रान्त करनेवाला-अतिश्व सेवक । कुत्ते से भी बढ़कर सेवक (स्वामी का भक्त)।
सिद्धि-अतिश्व: । अति+सु+श्वन्+अम्। अति+श्वन् । अतिश्वन्+टच् । अतिश्व्+अ। अतिश्व+सु । अतिश्वः।
__यहां अति और श्वन् शब्दों का कुगतिप्रादयः' (२।२।१८) से प्रादितत्पुरुष समास है। ‘अतिश्वन्' शब्द से इस सूत्र ते समासान्त टच्' प्रत्यय है। नस्तद्धिते (६।४।१४४) से अंग के टि-भाग (अन्) का लोप होता है। टच्
(१२) उपमानादप्राणिषु ।६७। प०वि०-उपमानात् ५।१ अप्राणिषु ७।३ । स०-न प्राणिन:-अप्राणिन:, तेषु-अप्राणिषु (नञ्तत्पुरुष:)। अनु०-समासान्ताः, तत्पुरुषस्य, टच, शुन इति चानुवर्तते। अन्वय:-अप्राणिषु उपमानात् शुनस्तत्पुरुषात् समासान्तष्टच् ।
अर्थ:-अप्राणिषु-प्राणिवर्जिताद् उपमानवाचिन: श्वन्-शब्दान्तात् तत्पुरुषसंज्ञकात् प्रातिपदिकात् समासान्तष्टच् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org