________________
पञ्चमाध्यायस्य चतुर्थः पादः
४१५
उदा०-शिष्य आचार्य जी को देय शाल आदि द्रव्य को उनके अधीन करता है - आचार्यत्रा करता है, आचार्यत्रा होता है, आचार्यत्रा होवे, आचार्यत्रा बनता है (त्रा) । आचार्यसात् करता है, आचार्यसात् होता है, आचार्यसात् होवे, आचार्यसात् बनता है। सिद्धि - (१) आचार्यत्रा | आचार्य + अम् +त्रा | आचार्य + त्रा । आचार्यत्रा+सु । आचार्यत्रा+0 | आचार्यत्रा ।
/
यहां कृ, भू, अस्ति और सम्पद के योग में स्वामिविशेषवाची 'आचार्य' शब्द से तदधीन देय द्रव्य के कथन अर्थ में इस सूत्र से 'त्रा' प्रत्यय है। शेष कार्य पूर्ववत् है । (२) आचार्यसात् पद की सिद्धि पूर्ववत् है ।
सामान्यार्थप्रत्ययविधिः
त्रा:
(१) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥५६ । प०वि०-देव- मनुष्य - पुरुष - मर्त्येभ्य: ५ ३ द्वितीया - सप्तम्योः ६ । २ बहुलम् १ । १ ।
।
सo - देवश्च मनुष्यश्च पुरुषश्च पुरुश्च मर्त्यश्च ते - देवमनुष्यपुरुषपुरुमर्त्याः, तेभ्य:- देवमनुष्यपुरुषपुरुमर्त्येभ्यः (इतरेतरयोगद्वन्द्वः) । द्वितीया च सप्तमी च ते द्वितीयासप्तम्यौ, तयो:- द्वितीयासप्तम्योः (इतरेतरयोगद्वन्द्वः) । अनु०-कृभ्वस्तियोगे इत्यत्र न सम्बध्यते । 'त्रा' इत्यनुवर्तते, सातिरिति च निवृत्तम् ।
अन्वयः-द्वितीयासप्तम्यन्तेभ्यो देवमनुष्यपुरुषपुरुमर्त्येभ्यो बहुलं त्राः । अर्थ :- द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च देवमनुष्यपुरुषपुरुमर्त्येभ्यः प्रातिपदिकेभ्यः सामान्यार्थे बहुलं त्राः प्रत्ययो भवति ।
उदा०- ( देव:) देवान् गच्छति - देवत्रा गच्छति (द्वितीया ) । देवेषु वसति देवत्रा वसति (सप्तमी )। (मनुष्यः ) मनुष्यान् गच्छति मनुष्यत्रा गच्छति । मनुष्येषु वसति मनुष्यत्रा वसति । ( पुरुषः ) पुरुषान् गच्छति - पुरुषत्रा गच्छति । पुरुषेषु वसति पुरुषत्रा वसति । (पुरुः ) पुरून् गच्छति-पुरुत्रा गच्छति । पुरुषु वसति - पुरुत्रा वसति । ( मर्त्यः) मर्त्यान् गच्छति-मर्त्यत्रा गच्छति । मर्त्येषु वसति - मर्त्यत्रा वसति । बहुलवचनादन्यत्रापि त्राः प्रत्ययो भवति - बहुत्रा जीवतो मन इति ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org