________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा० - वर्ध = चमड़े की रस्सी के लिये हितकारी - वार्ध चर्म ( चमड़ा ) । वह चमड़ा जिसकी रस्सी अच्छी बनती है। वरत्र = गाड़ी में बांधने की मोटी रस्सी के लिये हितकारी-वारत्र चर्म ।
१४
सिद्धि-वार्धम् । वर्ध+ ङे+अञ् । वार्ध+अ । वार्ध+सु । वार्धम् ।
यहां चतुर्थी- समर्थ, चर्म सम्बन्धी विकृतिवाची 'वर्ध' शब्द से हित अर्थ में तथा तत्सम्बन्धी प्रकृति अभिधेय में इस सूत्र से 'अञ्' प्रत्यय है। पूर्ववत् अंग को आदिवृद्धि तथा अंग के अकार का लोप होता है। ऐसे ही-वारत्रम् ।
अस्य-अस्मिन्-स्यादित्यर्थप्रत्ययप्रकरणम्
यथाविहितं प्रत्ययः
(१) तदस्य तदस्मिन् स्यादिति । १६ ।
प०वि०-तत् १।१ अस्य ६ । १ तत् १ । १ अस्मिन् ७।१ स्यात् क्रियापदम्, इति अव्ययपदम् ।
अन्वयः - तद् इति प्रथमासमर्थाद् अस्य, अस्मिन् यथाविहितं प्रत्ययः स्याद् इति ।
अर्थ:- तद् इति प्रथमासमर्थात् प्रातिपदिकाद् अस्येति षष्ठ्यर्थे ऽस्मिन्निति च सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं स्याच्चेत् तद् भवति, इति करणो विवक्षार्थ: ।
उदा०- (षष्ठ्यर्थे ) प्राकार आसामिष्टकानां स्यात् - प्राकारीया इष्टकाः । प्रासादोऽस्य दारुणः स्यात् प्रासादीयं दारु । (सप्तम्यर्थे ) प्राकारोऽस्मिन् देशे स्यात् प्राकारीयो देश: । प्रासादोऽस्यां भूमौ स्यात्प्रासादीया भूमिः ।
I
स्यादित्यत्र 'सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे ( ३ । ३ । १५४ ) इति सम्भावनायां लिङ् प्रत्ययः । इष्टकानां बहुत्वेन तत् सम्भाव्यते- प्राकार आसामिष्टकानां स्यादिति । देशस्य च गुणवत्त्वेन तत् सम्भाव्यतेप्रासादोऽस्मिन् देशे स्यादिति । इतिकरणो विवक्षार्थ इत्युक्तम् तेनात्र न भवति प्रासादो देवदत्तस्य स्यादिति । सूत्रे द्विस्तत्पाठः समर्थविभक्तेर्न्यायव्यवस्थार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org