________________
निपातनम्
पञ्चमाध्यायस्य तृतीय पादः
(७) पश्च पश्चा चच्छन्दसि । ३३ ।
प०वि० - पश्च अव्ययपदम् पश्चा अव्ययपदम्, च अव्ययपदम्,
छन्दसि ७।१ ।
अनु० - दिक्शब्देभ्यः, सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु पश्चात् इति चानुवर्तते ।
२६१
अन्वयः - छन्दसि दिग्देशकालेषु, सप्तमीपञ्चमीप्रथमान्ताद् दिक्शब्दात् अपरात् स्वार्थे अ:, आ:, अतिश्च, पश्चश्च ।
अर्थ:-छन्दसि विषये पश्च, पश्चा, पश्चादिति च शब्दा निपात्यन्ते । छन्दसि विषये दिग्देशकालेष्वर्थेषु वर्तमानात् सप्तमीपञ्चमीप्रथमान्ताद् दिशावाचिनोऽपरशब्दात् प्रातिपदिकात् स्वार्थेऽकार आकार आतिश्च प्रत्यया भवन्ति, अपरस्य स्थाने च पश्च आदेशो भवतीत्यर्थः । उदाहरणम् - पुरा व्याघ्रो जायते पश्च सिंह:, पश्चा सिंह, पश्चात् सिंहः ।
1
दिक्-अपरस्यां दिशि वसति - पश्च वसति । पश्चा वसति । पश्चाद् वसति (सप्तमी)। अपरस्या दिश आगतः - पश्च आगतः । पश्चा आगतः । पश्चाद् आगत: (पञ्चमी) । अपरा दिग् रमणीया - पश्च रमणीया । पश्चा रमणीया। पश्चाद् रमणीया । इत्थम् - देशे काले चार्थे पश्चाद्वद् उदाहार्यम् ।
आर्यभाषाः अर्थ-(छन्दसि ) वेदविषय में (पश्च) पश्च ( पश्चा) पश्चा (च) और (पश्चात् ) पश्चात् ये शब्द निपातित हैं, अर्थात् (छन्दसि ) वेदविषय में (दिग्देशकालेषु) दिक, देश, काल अर्थ में विद्यमान (सप्तमीपञ्चमीप्रथमाभ्यः) सप्तमी - पञ्चमी - प्रथमान्त, (दिक्शब्देभ्यः) दिशावाची (अपरात्) अपर प्रातिपदिक से (अ:) अ (आ:) आ (आति:) आति प्रत्यय और अपर को (पश्च) पश्च आदेश निपातित है ।
उदा० - पुरा व्याघ्रो जायते पश्च सिंहः, पश्चा सिंह, पश्चात् सिंहः ।
दिक्- अपर दिशा में रहता है- पश्च रहता है । पश्चा रहता है । पश्चात् रहता है (सप्तमी ) । अपर दिशा से आया- पश्च आया। पश्चा आया । पश्चात् आया (पञ्चमी) । अपर दिशा रमणीया - पश्च रमणीया । पश्चा रमणीया । पश्चात् रमणीया ।
Jain Education International
इसी प्रकार देश और काल अर्थ में भी पूर्वोक्त 'पश्चात्' शब्द के सहाय से शेष उदाहरणों की स्वयं ऊहा कर लेवें ।
For Private & Personal Use Only
www.jainelibrary.org