________________
अतसुच्-विकल्पः
पञ्चमाध्यायस्य तृतीय पादः
(३) विभाषा परावराभ्याम् । २६ ।
प०वि० - विभाषा १ ।१ पर- अवराभ्याम् ५।२।
२८५
स०-परश्च
(इतरेतरयोगद्वन्द्वः) ।
अनु०-दिक्शब्देभ्यः, सप्तमीपञ्चमीप्रथमाभ्यः, दिग्देशकालेषु इति
अवरश्च तौ परावरौ, ताभ्याम् परावराभ्याम्
चानुवर्तते ।
अन्वयः - दिग्देशकालेषु सप्तमीपञ्चमीप्रथमाभ्यां दिक्शब्दाभ्यां परावराभ्यां विभाषाऽतसुच् ।
अर्थ:-दिग्देशकालेष्वर्थेषु वर्तमानाभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां दिक्शब्दाभ्यां परावराभ्यां प्रातिपदिकाभ्यां स्वार्थे विकल्पेनाऽतसुच् प्रत्ययो भवति, पक्षे चाऽस्तातिः प्रत्ययो भवति । उदाहरणम्
Jain Education International
(१) दिक्- (परः) परस्यां दिशि वसति-परतो वसति (अतसुच् ) । परस्ताद् वसति (अस्तातिः ) (सप्तमी ) । परस्या - दिश आगत:-परत आगतः । परस्ताद् आगतः (पञ्चमी) । परा दिक् रमणीया - परतो रमणीया । परस्ताद् रमणीया (प्रथमा ) | ( अवर: ) अवरस्यां दिशि वसति - अवरतो वसति । अवरस्ताद् वसति (सप्तमी ) । अवरस्या दिश आगत: - अवरत आगतः । अवरस्ताद् आगत: (पञ्चमी) । अवरा दिग् रमणीया - अवरतो रमणीया । अवरस्ताद् रमणीया (प्रथमा ) ।
(२) देश :- (पर: ) परस्मिन् देशे वसति-परतो वसति । परस्ताद् वसति (सप्तमी ) । परस्माद् देशाद् आगत: - परत आगतः । परस्ताद् आगतः (पञ्चमी)। परा दिग् रमणीया - परतो रमणीया । परस्ताद् रमणीया (प्रथमा ) | ( अवर: ) अवरस्मिन् देशे वसति- अवरतो वसति । अवरस्ताद् वसति (सप्तमी)। अवरस्माद् देशाद् आगत: - अवरत आगत: । अवरस्ताद् आगत: (पञ्चमी)। अवरा दिग् रमणीया - अवरतो रमणीया । अवरस्ताद् रमणीया (प्रथमा) ।
For Private & Personal Use Only
www.jainelibrary.org