SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८२ पाणिनीय-अष्टाध्यायी-प्रवचनम् स्वार्थिकप्रत्ययप्रकरणम् अस्तातिः(१) दिकशब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः।२७। प०वि०-दिक्शब्देभ्य: ५।३ सप्तमी-पञ्चमी-प्रथमाभ्य: ५।३ दिक्-देश-कालेषु ७।३ अस्ताति: १।१ । स०-दिशां शब्दा:-दिक्शब्दा:, तेभ्य:-दिक्शब्देभ्य: (षष्ठीतत्पुरुषः) । सप्तमी च पञ्चमी च प्रथमा च ता: सप्तमीपञ्चमीप्रथमा:, ताभ्य:सप्तमीपञ्चमीप्रथमाभ्यः (इतरेतरयोगद्वन्द्वः)। दिक् च देशश्च कालश्च ते दिग्देशकाला:, तेषु-दिग्देशकालेषु (इतरेतरयोगद्वन्द्व:) । अन्वय:-दिग्देशकालेषु सप्तमीपञ्चमीप्रथमाभ्यो दिक्शब्देभ्य: स्वार्थेऽस्ताति:। अर्थ:-दिग्देशकालेष्वर्थेषु वर्तमानेभ्य: सप्तमीपञ्चमीप्रथमान्तेभ्यो दिक्शब्देभ्य:=दिशावाचिभ्य: प्रातिपदिकेभ्य: स्वार्थेऽस्ताति: प्रत्ययो भवति । उदाहरणम् (१) दिक्-पूर्वस्यां दिशि वसति-पुरस्ताद् वसति (सप्तमी)। पूर्वस्या दिश आगत:-पुरस्तादागत: (पञ्चमी)। पूर्व दिग् रमणीया-पुरस्ताद् रमणीया (प्रथमा)। (२) देश:-पूर्वस्मिन् देशे वसति-पुरस्ताद् वसति (सप्तमी)। पूर्वस्माद् देशादागत:-पुरस्तादागत: (पञ्चमी) । पूर्वो देशो रमणीय:-पुरस्ताद् रमणीय: (प्रथमा)। (३) काल:-पूर्वस्मिन् काले वसति-पुरस्ताद् वसति (सप्तमी)। पूर्वस्मात् कालादागत:-पुरस्तादागत: (पञ्चमी)। पूर्व: कालो रमणीय:पुरस्ताद् रमणीय: (प्रथमा)। आर्यभाषा: अर्थ- (दिग्देशकालेषु) दिशा, देश, काल अर्थों में विद्यमान (सप्तमी-पञ्चमीप्रथमाभ्यः) सप्तमी-पञ्चमी-प्रथमान्त (दिक्शब्देभ्य:) दिशावाची प्रातिपदिकों से स्वार्थ में (अस्ताति:) अस्ताति प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy