________________
२६२
स०-किं च सर्वनाम च बहुश्च ते-किंसर्वनामबहवः, तेभ्य:-किं सर्वनामबहुभ्य: (इतरेतरयोगद्वन्द्व:)। द्वि आदिर्येषां ते यादयः, न व्यादय:-अद्वयादयः, तेभ्य:-अद्व्यादिभ्यः (बहुव्रीहिगर्भितनञ्तत्पुरुष:)।
अनु०-प्राक्, दिश:, विभक्तिरिति चानुवर्तते।
अन्वय:-अद्व्यादिभ्यः किंसर्वनामबहुभ्यो दिश: प्राग् विभक्तिः प्रत्ययाः।
अर्थ:-व्यादिवजितिभ्यः किं सर्वनामबहुभ्य: प्रातिपदिकेभ्यो वक्ष्यमाणा: प्राग्दिशीया: विभक्तिसंज्ञका: प्रत्यया भवन्तीत्यधिकारोऽयम्।
उदा०-(किम्) कुत: । कुत्र। (सर्वनाम) ततः। तत्र। यतः। यत्र । (बहु) बहुत:। बहुत्र।
आर्यभाषा: अर्थ-(अद्वयादि) द्वि-आदि शब्दों से भिन्न (किं सर्वनामबहुभ्य:) किम्, सर्वनाम-संज्ञक, बहु प्रातिपदिकों से (प्राक्-दिश:) प्राग्-दिशीय (विभक्तिः) विभक्तिसंज्ञक प्रत्यय होते हैं।
उदा०-(किम्) कुत:-कहां से। कुत्र-कहां। (सर्वनाम) तत: वहां से । तत्र वहां। यत: जहां से । यत्र-जहां। (बहु) बहुत: बहुत स्थानों से। बहुत्र=बहुत स्थानों में।
सिद्धि- 'कुत:' आदि पदों की सिद्धि यथास्थान लिखी जायेगी।
विशेष: द्वि-आदि शब्द सर्वादिगण (१।१।२७) में पठित हैं-द्वि। युष्मद् । अस्मद् । भवतु। किम् । इनसे वक्ष्यमाण विभक्ति-संज्ञक प्रत्यय नहीं होते हैं। इश्-आदेशः
(३) इदम इश्।३। प०वि०-इदम: ६।१ इश् १।१। अनु०-प्राक्, दिश:, विभक्तिरिति चानुवर्तते। अन्वय:-इदम इश् प्राग्दिशीये विभक्तिसंज्ञके प्रत्यये।
अर्थ:-इदम: स्थाने इश् आदेशो भवति, प्राग्दिशीये विभक्तिसंज्ञके प्रत्यये परत:।
उदा०-अस्मिन्-इह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org