________________
२४४
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति, इति चानुवर्तते । अन्वयः-तद् अस्मायामेधास्रग्भ्योऽस्य, अस्मिन्निति च विनि:,
अस्ति ।
अर्थ:- तद् इति प्रथमासमर्थेभ्योऽसन्तेभ्यो मायामेधास्त्रग्भ्यश्च प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे विनिः प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति ।
उदा०- ( असन्तः ) यशोऽस्य, अस्मिन् वाऽस्ति यशस्वी । तपस्वी । मनस्वी । (माया) मायाऽस्य, अस्मिन् वाऽस्ति-मायावी । (मेधा ) मेधाऽस्य, अस्मिन् वाऽस्ति मेधावी । (स्त्रक् ) स्रग् अस्य अस्मिन् वाऽस्ति स्रग्वी ।
आर्यभाषाः अर्थ-(तत्) प्रथमा-समर्थ (अस्मायामेधास्रजः ) असन्त, माया, मेधा, स्रक् प्रातिपदिकों से (अस्य) षष्ठी - विभक्ति और ( अस्मिन्निति ) सप्तमी - विभक्ति के अर्थ में (विनिः) विनि प्रत्यय होता है (अस्ति ) जो प्रथमा - समर्थ है यदि वह 'अस्ति' हो ।
उदा०- - ( असन्त) यशस् इसका है वा इसमें है यह यशस्वी । तपस् इसका है वा इसमें है यह तपस्वी । मनस् इसका है वा इसमें है यह - मनस्वी । (माया) माया छल-कपट इसका है वा इसमें है यह - मायावी । (मेधा ) मेधा = तीव्रबुद्धि इसकी है वा इसमें है यह - मेधावी । (स्त्रक् ) स्रक् = माला इसकी है वा इसमें है यह स्रग्वी ।
सिद्धि-यशस्वी | यशस्+सु+विनि। यशस्+विन् । यशस्विन् + सु | यशस्वीन्+सु । यशस्वीन् +0 | यशस्वी ।
यहां प्रथमा-समर्थ, असन्त 'यशस्' शब्द से अस्य (षष्ठी) वा अस्मिन् (सप्तमी) अर्थ में इस सूत्र से 'विनि' प्रत्यय है। शेष कार्य 'तपस्वी' (५ 1२1१०२ ) के समान है। ऐसे ही - मायावी, मेधावी, स्रग्वी ।
बहुलं विनिः
(२६) बहुलं छन्दसि । १२२ ।
प०वि० - बहुलम् १ । १ छन्दसि ७ । १ ।
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति, विनिरिति चानुवर्तते । अन्वयः-छन्दसि तत् प्रातिपदिकाद् अस्य अस्मिन्निति च बहुलं विनि:, अस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org